భాషందం, భువనందం, బ్రతుకందం

Wednesday, January 02, 2013

जॆट् लॉग्


अतिप्रगे  भवनवलभौ तिष्टन्तं परदेशिनं
एकाऽज्ञातशिरःपीडा पीडयामास

ब्रह्मरात्रस्य धूमिका नगरमावव्रे
ग्रामवर्जजनप्रचोदयन्ती  मायेव

मलिनस्रोतोदुर्गन्धं क्लिन्नवासांसि शोषयेत्
किमेतद्भवति वस्त्रानुगुप्तकौटिल्यभूषणं

रसिकानां कालयापनं न भवेदिति मत्वा
अपरात्रे मार्गशीर्षमारुतः मिथोमिथो वाति

बहुळपञ्चमीज्योत्स्नाया नगरनक्तञ्चरगर्धनं
सुप्तावस्थां** दुस्स्वप्नेषु नर्तयामास

शतयुगचरित्रसाक्षिनां सप्तर्षिणां
साधकपित्तं नैतत्दृश्यं जरयतुं शक्नोति

नाहं भर्तेति मत्वा धूमनिलीनो ध्रुवो कालं
प्रार्थते विलयस्व सीमास्थितय इति

प्राणायामपरायणैका योगिनी
स्वप्राणनष्टभयाद्व्यारमत्

तदानीं कस्मिन् दूरदेशे ...

गङ्गे गोदावरे पुष्पनावि डोलायमानानि
ठाकुरादिमहाकवीनामात्मानि

एतन्नगरबालकलुषितवर्तमानं
आत्मकवितात्मकताक्षिप्तभविष्यत्

दृष्ट्वा लिप्तमात्रं विलप्य पुनःपरित्यज्य
कंचिदलक्ष्यपुरुषं प्रति ध्यानं चक्रुः




संशयानि
---------
**अवस्था - उपपदसमासः - अवस्थां - ६ बहु? अवस्थः - बहुव्रीहिसमासः - अवस्थानां - ६ बहु?)


This is like my first attempt at poetry in Sanskrit. I think I will go down in history as the idiot who tried to write free verse in the divine language. It was a Telugu poem that had too many Sanskrit words so I just changed a bit and posted it here. Do correct profusely. I am sure there are a lot of mistakes. Especially switching around tenses like I did. Thanks

జెట్ లాగ్

నవతరంగం సినిమా తెవికీ పొద్దు కూడలి తెలుగుబ్లాగు సాహిత్యం